Prof. Hansa Kathiriya

…..बुधाः भाव समन्विताः …..
सततं कीर्तयन्तो मां …..
….. कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ll

इति गीतायाः वचनानि मम केन्द्रे सार्थकानि भवन्ति l
अपि च यथा श्री जगन्मातुः पराम्बायाः एकस्यामेव हृदये पूर्णं जगत् समाश्रयते
तथा इदं केन्द्रं सततं सर्वेषु हृदयेषु शाश्वतं आनन्दं शान्तिं च अनुभावयति स्थापयति च l
अत्रागत्य जनाः स्वात्मना सह सहजभावेन युज्यन्ते l
अनायासपूर्वकं हि श्री मातुः श्री अरविन्दस्य कृपाम् अनुभवति कोડपि जनः l
अस्मिन् केन्द्रे अहं संस्कृतप्रशिक्षणं करोमि एतद् मम सद्भाग्यम् l
यथा अस्माकं शरीरे हृदयं मर्मकेन्द्रम् अस्ति
तथैव मम जीवने श्री अरविन्द केन्द्रम् अस्ति ll